(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.202. अध्यायः 202
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन पाण्डवान्प्रति कीर्त्यकीर्त्योः स्वर्गनरकनिवासहेतुताप्रतिपादकेन्द्रद्युम्नोपाख्यानकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-202-0x(2440)(23806)
मार्कण्डेयमृषिं पाण्डवाः पर्यपृच्छन्नस्ति कश्चिद्भवतश्चिरजाततर इति ॥ 3-202-1(23807)
स तानुवाचास्ति खलु राजर्षिरिन्द्रद्युम्नो नाम क्षीणपुण्यस्त्रिदिवात्प्रच्युतः कीर्तिर्मे व्युच्छिन्नेति स मामुपातिष्ठदथ प्रत्यभिजानाति मां भवानिति ॥ 3-202-2(23808)
तमहमब्रवं नाभिजानीमो भवन्तमिति रकार्यचेष्टाकुलत्वानन वयं रासायनिका ग्रामैकरात्रवासिनो न प्रत्यभिजानीमोऽप्यात्मनोऽर्थानामनुष्टानं न शरीरोपतापेनात्मनः समारभामोऽर्थानामनुष्ठानम् ॥ 3-202-3(23809)
`एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनर्मामब्रवीत् ॥ अथास्ति कश्चित्त्वत्तश्चिरजाततर इति। तं पुनः प्रत्यब्रवम् ॥' अस्ति खलु हिमवति प्रावारकर्णो नामोलूकः प्रतिवासति ॥ स मत्तश्चिरजातो भवन्तं यदि जानीयाद्विप्रकृष्टे चाध्वनि हिमवांस्त त्रासौ प्रतिवसतीति ॥ 3-202-4(23810)
तत स मामश्वो भूत्वा तत्रावहद्यत्र बभूवो लूकः ॥ अथैनं स राजर्षिः पर्यपृच्छत्प्रतिजानाति मां भवानिति ॥ 3-202-5(23811)
स मुहूर्तमिव ध्यात्वाऽब्रवीदेनं नाभिजानामि भवन्तमिति स एवमुक्त इन्द्रद्युम्नः पुनस्तमुलङ मब्रवीद्राजर्षिः ॥ 3-202-6(23812)
अथास्ति कश्चिद्भवतः सकाशाच्चिरजात इति स एवमुक्तोऽब्रवीदस्तिखल्विन्द्रद्युम्नं नाम सरस्त स्मिन्नालिजङ्घो नाम बकः प्तिवसति सोस्मत्तश्चिरजाततरस्तं पृच्छेति तत इन्द्रद्युम्नो मां चोलूकमादाय तत्सरोऽगच्छद्यत्रासौ नालिजङ्घो नाम बको बभूव ॥ 3-202-7(23813)
सोस्माभिः पृष्टो भवानिममिनद्रद्युम्नं राजानमभिजानातीति स एवं मुहूर्तं ध्यात्वाऽब्रवीन्नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति ॥ ततः सोस्माभिः पृष्टः कश्चिद्भवतोऽन्यश्चिरजाततरोस्तीति स नोऽब्रवीदस्ति खल्वस्मिन्नेव सरस्यकूपारो नाम रकच्छपः प्रतिवसति ॥ स मत्तश्चिरजाततरः स यदि कथंचिदभिजानीयादिमं राजानं तमकूपारं पृच्छध्वमिति ॥ 3-202-8(23814)
ततः स बकस्तमकूपारं कच्छपं विज्ञापयामास अस्माकमभिप्रेतं भवन्तं कंचिदर्थमभिप्रष्टं साध्वागम्यतां तावदिति तच्छ्रुत्वा कच्छपस्तस्मात्सरस उत्थायाभ्यागच्छद्यत्र तिष्ठामो वयं तस्य सरसस्तीरे आगतं चैनं वयमपृच्छाम भवानिन्द्रद्युम्नं राजानमभिजानातीति ॥ 3-202-9(23815)
स मूहूर्तं ध्यात्वा बाष्पसंपूर्णनयन उद्विग्नहृदयो वेपमानो विसंज्ञकल्पः प्राञ्जलिरब्रवीत् किमहमेनं न प्रत्यभिज्ञास्यामीह ह्यनेन सहस्रकृत्वः पूर्वमग्निचितिषूपहिताः ॥ 3-202-10(23816)
सरश्चेदमस्य दक्षिणोदकदत्ताभिर्गोभिरतिक्रममाणाभिः कृतम् ॥ अत्रचाहं प्रतिवसामीति ॥ 3-202-11(23817)
अथैतत्सकलं कच्छपेनोदाहृतं श्रुत्वा तदनन्तरं देवलोकाद्देवरथः प्रादुरासीद्वाचश्चाश्रूयन्तेन्द्रद्युम्नं प्रति प्रस्तुतस्ते स्वर्गो यथोचितं स्थानं प्रतिपद्यस्व कीर्तिमानस्यव्यग्रो याहीति ॥ 3-20213x भवन्ति चात्र श्लोकाः। 3-202-12(23818)
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः। यावत्स शब्दो भवति तावत्स्वर्गे महीयते ॥ 3-202-13(23819)
अकीर्तिः कीर्त्यते लोके यस्य भूतस्य कस्यचित्। स पतत्यधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ॥ 3-202-14(23820)
तस्मात्कल्याणवृत्तः स्याद्दाता तावन्नरो भुवि। विहाय वृत्तंपापिष्ठं धर्ममेव समाश्रयेत् ॥ 3-202-15(23821)
इत्येतच्छ्रुत्वा स राजाऽब्रवीत्तिष्ठ तावद्यावदिमौ वृद्धौ यथास्थानं प्रतिपादयामीति ॥ 3-202-16(23822)
स मां प्रावारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेन देवयानेन संसिद्धं यथोचितं स्थानं प्रतिपेदे तन्मयाऽनुभूतं चिरजीविनेदृशमिति पाण्डवानुवाच मार्कण्डेयः ॥ 3-202-17(23823)
तमृषिं पाण्डवाश्चोचुः साधु शोभनं भवता कृतंराजानमिन्द्रद्युम्नं स्वर्गलोकाच्च्युतं स्वे स्थाने प्रतिपादयतेत्यथैतानब्रवीदसौ ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो राजर्षिर्नृगस्तस्मात्कृच्छ्रात्पुनः समुद्धृत्यस्वर्गं प्रापित इति ॥ 3-202-18(23824)

इति श्रीमनमहाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि द्व्यधिकद्विशततमोऽध्यायः ॥ 202 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-202-3 रसायनिकाः इति झ. पाठः ॥ 3-202-10 अग्निचितिषु अग्निचयनेषु कर्तव्येषु सत्मु ॥ 3-202-13 तावत्पुरुषउच्यते इति झ. पाठः। पुरुषः स्वर्गस्थ इति शेषः ॥ 3-202-18 असौ मार्कण्डेयः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.